Archive for category लेखनानि

पुस्तकमेलातः पाठाः

Posted by on l, j F, Y

लेखकः – श्री चमू कृष्ण शास्त्री

कस्यचन कार्यक्रमस्य अनन्तरं तस्य के परिणामाः अभव‌न्‌ , के लाभाः जाताः इति तु जनाः चिन्तयन्ति एव । परं कार्यकर्तारः वयं तस्य कार्यक्रमस्य कारणेन कान्‌ कान्‌ पाठान्‌ पठितवन्तः इत्यपि चिन्तयेम । तथा सद्यः सम्पन्नायाः विश्वसंस्कृतपुस्तकमेलायाः के पाठाः इति प्रकृतं विचारयाम ।

संस्कृतसम्बद्धाः सर्वाः संस्थाः मिलित्वा संस्कृतकार्यं कुर्वन्ति चेत्‌ कीदृशः अपूर्वः परिणामः भवेत्‌ इति वयं बेन्गलूरु नगरे दृष्टवन्तः । अतः अस्माभिः सर्वैः मिलित्वा कार्यं करणीयं इति प्रधमः पाठः । विविधासु संस्थासु सतीषु, विविधेषु जनेषु वा सत्सु सर्वैः सर्वदा मिलित्वा सम्भूय कार्यं करणीयम्‌ । तेनैव अधिकं फलम्‌ । यथा व्यक्तीनां गणकार्यं (teamwork) भवति, तथा संस्थानां अपि गणरूपेण कार्यकरणं स्यात्‌ । तस्याः दिशि प्रथमसोपानरूपेण संस्कृतसम्बद्धानां सर्वासां संस्थानां `networking’ भवेत्‌ । तदर्थम्‌ उपायाः चिन्तनीयाः ।

गणरूपेण कार्यं (teamwork) करणीयं चेत्‌ तदर्थं काश्चन पूर्वावश्यकताः भवन्ति । केनापि गणसदस्येन स्वस्यैव पुरस्करणं (self-projection) न कर्तव्यं, सर्वेषां पुरस्करणं करणीयम्‌ । श्रमे कर्तव्ये अग्रेसरेण भवितव्यं, मञ्चे उपवेष्टव्ये पश्चात्‌ गन्तव्यम्‌ । त्यागे अहमहमिका, पुष्पमालासु उदासीनता, परेषां कीर्तनम्‌, आत्मनः विलोपनं, कार्यं प्रधानं स्वस्य नाम-स्थान-मानादिकं न, निर्णयानन्तरं तस्य क्रियान्वयनाय मनःपूर्वकः सम्पूर्णः सहयोगः इत्यादयः गुणाः अपेक्ष्यन्ते । विश्वसंस्कृतपुस्तकमेलायां सर्वैः संस्कृतविश्वविद्यालयैः, संस्कृत-अकाडेमी प्रभृतिभिः च तथैव व्यवहृतम्‌ । राष्त्रिय संस्कृत-संस्थानस्य आदर्शः अवलोक्यताम्‌ । संस्थानेन सहस्राधिकाः छात्राः, शताधिकाः अध्यापकाः, शताधिकाः अन्ये विद्वांसः च तावतां मार्गव्ययं प्रतिनिधिशुल्कं च दत्त्वा पुस्त्कमेलार्थं प्रेषिताः । कविसम्मेलनं, शिक्षासम्मेलनं चेति सत्रद्वयस्य आयोजनार्थं अपेक्षिता अर्थव्यवस्था अन्यकार्याणि च कृतानि, पुस्तकापणेषु सशुल्कं उपदशाः आपणाः स्वीकृताः । प्रयत्नं कृत्वा उपषष्टानि नूतन-पुस्तकानि प्रकाशनाय सज्जीकृतानि । कुलपतिना स्वयमपि मेलार्थं ग्रन्थाः रचिताः । अन्येऽपि तदर्थं प्रेरिताः च । अखिलभारतीय स्पर्थाः अपि मेलावसरे एव आयोजिताः, येन तत्र भाग-भागिनः अपि मेलां पश्येयुः  इति । एतदतिरिक्ततया केन्द्र सर्वकारतः मेलार्थं दशलक्षं रूप्यकाणि दापितानि । परं, राष्ट्रिय-संस्कृत-संस्थानेन तत्पदाधिकारिभिः वा कदापि, कुत्रापि, क्वचिदपि एतद्विषये उल्लेखोऽपि न कृतः । तादृशः भावः अपि नैव प्रदर्शितः । अतः एतस्मात्‌ अस्माभिः ज्ञातव्यं तु – स्वस्य ख्यापनं न, अपि तु संस्कृतस्य, ध्येयस्य, कार्यस्य च ख्यापनं करणीयं इति । अयं द्वितीयः पाठः ।

[ अनुवर्त्यते ]


videshii-pAThashAlAsu kimarthaM saMskR^itaM pAThayanti?

Posted by on l, j F, Y


किमर्थं संस्कृतम्‌ ?

Posted by on l, j F, Y


Bhagavad Gita: Ideas for Modern Management

Posted by on l, j F, Y